संरचनात्मक-संस्कृत-अध्ययनम्

(देशिक नामक तन्त्रांशेन संस्कृत व्युत्पत्ति साधकः)

Go Back



शब्दरत्नावलिः

स्वाध्यायः - प्रथमा दीक्षा

Sanskrit_Teaching_Chart

Subanta_Types_PDF

Subanta_Types_Text_Editable

Thesis of Dr.P.Ramanujachar_PDF

Thesis of Dr.P.Ramanujachar_Editable

Samasa Tagging Scheme

Samasa Tagged Examples - 1.Sisupalavadham

Samasa Tagged Examples - 2.Yadavabhyudayam

Samasa_Tagged_Examples-BhagavadGita

Gita-Slokas

Gita-Pada-Cheda

Gita-Tagged

Gita-Index

NatyaSastra-Tagged

NatyaSastra_Chap-6_Slokas

NatyaSastra_Chap-6_Tagged

शब्दरत्नावलिः - सन्धिः - (48)

(अच् - 9)

1. सवर्ण दीर्घः

2.गुणसन्धिः

3.वृद्धिसन्धिः

4.अत्र विशेषः

5.अयवादेशः

6.पेत्युपसर्गात्

7.अक्षशब्दात्

8.यणादेश सन्धिः

9.यान्तादेशसन्धिः

10.यकारादौ

11.पूर्वरूपसन्धिः

12.पररूपसन्धिः

13.शकन्ध्वादिगणपठितेषु

14.अवर्णात् ओकारे

15.अवङादेश सन्धिः

सवर्ण दीर्घः

अकस्सवर्णे अकिपरे दीर्घ एकादेश (पूर्वपरयोःस्थाने) स्स्यात्। यथादैत्य + अरिः -- दैत्यारिः, रमा + आश्रयः -- रमाश्रयः, राम + आदिः -रामादिः, पिता + आत्र - पितात्र, अत्ति + इदम्-- अत्तीदम्, लक्ष्मी + ईशः--लक्ष्मीशः, मति+ईड्यः-- मतीड्यः, गौरी + इयम् – गौरीयम्, गुरु + उदयः - गुरूदयः, वधू+ऊरू – वधूरू, चारु+ ऊहः - चारूहः, चमू+ उदधिः-- चमूदधिः, होतृ + ऋ कारः – होतृकारः, भ्रातृ+लृकारः - भ्रातृकारः, ऋकार-लृकारयोस्सावर्ण्याद्दीर्घः। लृकारस्य ऋकारः- अन्यान्युदाहरणानि प्रयोगाभावान्नोदाहृतानि। एवमग्रेपि।

Go Top

गुणसन्धिः

अकारान्तादाकारान्ताद्वा इकः परे पूर्वपरयोस्स्थाने एकः गुणआदेशस्स्यात्। यथा वद+इति—वदेति, राजा+इति—राजेति, धन+ईशः—धनेशः, रमा+ईशः—रमेशः, कूप+उदकम्—कूपोदकम्, गङ्गा + उदकम् --गङ्गोदकम्, राम+ ऊहः-- रामोहः, रामा+ऊरू-- रामोरू; कृष्ण+ऋद्धिः-- कृष्णर्द्धि:; तव + लृकारः -- तवल्कार; ऋकारविषये प्रकृतभावो वक्ष्यते।

Go Top

वृद्धिसन्धिः

अकारान्तादाकारान्ताद्वा इकः परे पूर्वपरयोस्स्थाने एकः गुणआदेशस्स्यात्। यथा वद+इति—वदेति, राजा+इति—राजेति, धन+ईशः—धनेशः, रमा+ईशः—रमेशः, कूप+उदकम्—कूपोदकम्, गङ्गा + उदकम् --गङ्गोदकम्, राम+ ऊहः-- रामोहः, रामा+ऊरू-- रामोरू; कृष्ण+ऋद्धिः-- कृष्णर्द्धि:; तव + लृकारः -- तवल्कार; ऋकारविषये प्रकृतभावो वक्ष्यते।अकारान्तादाकारान्ताद्वा एचिपरे पूर्वपरयो स्थाने वृद्धि रेकादेश स्स्यात्। यथा --- तस्य +. एषः --- तस्यैषः
प्रथमा + एक वचनम् --- प्रथमैकवचनम्:
गृह + ओषधिः --- गृहौषधिः,
गङ्गा + ओघः --- गङ्गौघः,
देव + ऐश्वर्यम् ---- देवैश्वर्यम्
रमा +. ऐक्यम् ---- रमैक्यम्;
कृष्ण + औत्कण्ठ्यम् --- कृष्णौत्कण्ठ्यम्,
रमा + औदार्यम् ---- रमौदार्यम्,

Go Top

अत्र विशेषः

अत्र विशेषः.- अकारान्तादुपसर्गात् ऋकारादौ धातौ परे वृद्धिरेकादेशस्स्यात् :— यथा – प्र + ऋच्छति ---- प्रार्छति, एवमुपार्छतीत्यादि. :- तत्र विशेषः-- नामधातौ पठे तु वा. प्र + . ऋषभीयति – प्रर्षभीयति, प्राषभीयतीत्यादि.
Go Top

अयवादेशः

5.अवणात्- एजाद्योः इण्धात्वेधधात्वोः परय्योः ऊ रादेशे परे च (पररूपं गुणञ्च बाधित्वा) वृद्धिर्भवति यथा.- उप +. एति----उपैति
प्र + एधते ---- प्रैधते;
प्रष्ठ + ऊहः ---- प्रष्ठौहः

Go Top

पेत्युपसर्गात्

6.पेत्युपसर्गात् ऊह, ऊढ, ऊढि, एष एष्य, ऋण एषु परेषु वृद्धिः क्रमेणोदाहरणानि. प्रौहः प्रौढः, प्रौढिः, प्रैषः, प्रैष्यः, प्राणम् | प्रेषः, प्रैष्यः, इत्यादौ प्र+ईष, ईष्य, इति ज्ञेयम् ।

Go Top

अक्षशब्दात्

7. अक्षशब्दात्-ऊहिनी शब्दे परे, स्वशब्दात् ईर, ईरिन् शब्देपरे; वत्सतर, कम्बल, वसन, दश, ऋण, एभ्यः ऋण शब्दे परे तृतीया समासे ऋत शब्दे परे च; वृद्धि स्स्यात् । क्रमेणोदाहरणानि - अक्षौहिणी; स्वैरिणी ; वत्सतरार्णम्, कम्बुलार्णम्, वसनार्थम्, दशार्णाः, देशः नदी च दशार्णा, ऋणार्णम् . ऋणापनयनाय कृमन्यदृणम्, सुखार्तः-सुखेनऋतः अन्यत्र परमर्तः ।

Go Top

यणादेश सन्धिः

8.यणादेश सन्धिः - इका स्थाने यणः स्युरसवर्णे अचि परे
दधि + अत्र --- दध्यत्र
सुधि + उपास्यः --- सुध्युपास्यः
अति + ऊर्ध्वम् ---- अत्यूर्ध्वम्
मति + ऋद्धिः- मत्यृद्धिः
अपि + एवम् ----अप्येवम्
दधि + ओदनः ----दध्योदनः
हरि + ऐश्वर्यम् --- हर्यैश्वर्यम्
बुद्धि + औत्कण्ठ्यम् --- बुद्ध्यौत्कण्ठ्यम्
मधु + आकृतिः ----- मध्वाकृतिः
पितृ + अंशः पित्रंशः;
लृ + अकृतिः-लाकृतिः, शेष मूह्यम्.


Go Top

यान्तादेशसन्धिः

9. यान्तादेशसन्धिः, वान्तादेशसन्धिश्च। एचां स्थाने क्रमात् :-अय्, अव्, आय्, आव्, एते आदेशास्स्युः-अचिपरे. हरे + ए --- हरये.
विष्णो + ए-विष्णवे
नै + अकः---- नायकः
पौ + अकः ---- पावकः | आत्र विशेषः.

Go Top

यकारादौ

10.यकारादौ प्रत्यये परे ओकारौकारयोः अव्, आव्, एता वादेशास्त्रः। गो + यत् --- गव्यम्
नौ + यत् ---- नव्यम्
गो + ऊतिः ----- गव्यूतिः एवं लव्यम्, अवश्यलाव्यम्, यान्तादेशविषये- शक्यार्थे क्षय्यजय्याविति; क्रयणार्हमेवेत्यर्थे क्रय्यमिति च विशेष:- अन्यत्र क्षेतुम् योग्यं- क्षेयम्, जेतुंयोग्यं - जेयम्; क्रेयम्, क्रयणार्हम्.

Go Top

पूर्वरूपसन्धिः

11. पूर्वरूपसद्दिः: - पदान्तात् एजः ॥ हस्वाकारे परे पूर्वरूपं (पूर्वपरय्योस्थाने) स्यात्. हरे + अव----हरेsव
विष्णो+अव --- विष्णोsव

Go Top

पररूपसन्धिः

12. पररूपसन्धिः – अवर्णान्तोपसर्गात् एजादौ धातौ परे पररूपं नित्यं स्यात्। एजादौ सुबन्तधातौ परे तु वा समासे ओष्ठशब्दे परेपि वा। प्र + एजते ---- प्रेजते
उप + ओषति --- उपोषति;
उप + एडकीयति-----उपेडकीयति, उपैकीयति
बिम्ब + ओष्ठः ---- बिम्बोष्ठः, बिम्बौष्ठः,
स्थूलोतुः, स्थूलौतुः, असमासे (तवौष्ठ इत्येव )

Go Top

शकन्ध्वादिगणपठितेषुः

13. शकन्ध्वादिगणपठितेषु टेः पररूपं वक्तव्यम्
शक + अन्धुः ----- शकन्धुः
मनस् + ईषा ---- मनीषा
पतत् + अञ्जलिः--- पतञ्जलिः
कुल + अटा ---- कुलटा
एवम् लाङ्गलीषा, कर्कन्धुः, मार्तण्डः, सीमन्तः, केशवेशः तद्भिन्नार्थे सीमान्त इत्यादि ज्ञेयम्. शकन्द्वादिराकृतिगणः।
अत्र-*टिर्नाम: - क्वचिदन्त्याज्वर्णः, क्वचिद्व्यञ्जनपरः अन्त्याज्वर्णः यथा शक इत्यत्र अकारः, मनस् इत्यत्र अस्, पतत् इत्यत्र अत् – एवं सर्वत्र बोध्यम् ।

Go Top

अवर्णात् ओकारे

14. अवर्णात् ओकारे, अङि च परे; अनवधारणारके , एव परेच: पररूपं स्यात्.
शिवाय - ओन्नमः ----- शिवायोंनमः
शिव + आ + इहि ----- शिवेहि,
एवमवेहीत्यादि - क्व + एवभोक्ष्यसे ----- क्वेवभोक्ष्यसे
अवधारणार्थे तवैव ॥ अनुकरणे विशेषः, पटत् + इति - पटितिः
पटत्पटत् + इति- पटत्पटपटत्- इतीत्यादि ।

अवङादेश सन्धिः

15. अवङादेश सन्धिः - पदान्ते गोशब्दस्य अचिपरे अवङादेशो (क्वचित्) वास्यात्, इन्द्र शब्दे परे नित्यम्.
गो + अग्रम् ----- गवाग्रम्, गोग्रम्
गो+ईशः ------ गवेशः, गवीशः (नित्यम्)
गो + अक्षः ---- गवाक्षः
गो + इन्द्रः ----- गवेंद्रः
इत्यच् - सन्धिः

Go Top