5. अश्वप्रतिग्रहेष्टि - இதற்கு தேவதை வருணன். திரவியம் நாலுகபால-புரோடாசம். प्रजापति வருணனுக்கு ஒரு குதிரையைக் கொடுத்தார். அவருக்கு மஹோதரம் என்கிற வியாதி வந்தது. அவர் இந்த இஷ்டியை இதற்கு மருந்து என்று அறிந்து, அதைச் செய்தார். வியாதி போய்விட்டது. இந்தக் கதையைச் சொல்லி எவன் குதிரையை வாங்கிக் கொள்ளுகிறானோ (प्रतिगृह्णाति) அவனை வருணன் பிடித்துக் கொள்ளுகிறான் என்று காட்டி, குதிரை எத்தனையோ, அத்தனை யாகங்களைச் செய்யவேண்டியது என்று வேதம் விதிக்கிறது. (तैत्ति.संहिता.का-2, प्रश्नः-3, अनु-12, प-46), இந்த இஷ்டியை எவன் செய்ய வேண்டியது - குதிரையைக் கொடுக்கிறவனா - வாங்கிக் கொள்ளுகிறவனா என்று சந்தேகம். प्रतिगृह्णाति - என்கிற சொல்லுக்கு வாங்கிக்கொள்ளுகிறானென்று பொருள். ஆனால் கொடுத்த प्रजापतिக்கு தொந்தரவு வந்ததாக கதை சொல்லுகிறது. ஆகையால் இந்தச் சொல்லுக்கு வாங்கும்படி செய்கிறது - அதாவது கொடுப்பது என்று பொருள் கொண்டு, குதிரையைக் கொடுக்கிறவன் தான் இஷ்டியைச் செய்ய வேணுமென்று தீர்மானம் (मीमांसा.अध्या-3, पा-4, अधि-15); मैत्रा.सं.का-2,प्रपा-3(काम्येष्टयः),मन्त्रः-9;Vedartha-Sadas(Video)-अश्वप्रतिग्रहेष्टिः ->> अश्वप्रतिग्रहेष्टिः-PDF

तैत्ति.संहिता.का-2, प्रश्नः-3, अनु-12, प-46
प्र॒जाप॑ति॒र्वरु॑णा॒याश्व॑मनयत्, सः स्वान्दे॒वता॑मार्च्छत्, सः पर्य॑दीर्यत, ​स ए॒तँव्वा॑रु॒णञ्चतु॑ष्कपालमपश्य॒त्, तं निर॑वपत्, ततो॒ वै स व॑रुणपा॒शाद॑मुच्यत । ​वरु॑णो॒ वा ए॒तङ्गृ॑ह्णाति॒ योऽश्व॑म्प्रतिगृ॒ह्णाति॑ ​याव॒तोऽश्वान्प्रतिगृह्णी॒यात्ताव॑तो वारु॒णाञ्चतु॑ष्कपाला॒न्निर्व॑पेत् ​वरु॑णमे॒व स्वेन॑ भाग॒धेये॒नोप॑ धावति स ए॒वैनँ॑व्वरुणपा॒शान्मु॑ञ्चति​ चतु॑ष्कपाला भवन्ति॒ चतु॑ष्पा॒द्ध्यश्व॒स्समृ॑द्ध्यै ​एक॒मति॑रिक्त॒न्निर्व॑पे॒त् यमे॒व प्र॑तिग्रा॒ही भव॑ति॒ यँव्वा॒ नाध्येति॑ तस्मा॑दे॒व व॑रुणपा॒शान्मु॑च्यते​ यद्यप॑रम्प्रतिग्रा॒ही स्यात्सौ॒र्यमेक॑कपाल॒मनु॒निर्व॑पेत् अ॒मुमे॒वादि॒त्यमु॑च्चा॒रङ्कु॑रुते ​अ॒पो॑ऽवभृ॒थमवैत्य॒फ्सु वै वरु॑णस्सा॒ख्षादे॒व वरु॑ण॒मव॑ यजते ​अ॒पो॒न॒प्त्रीय॑ञ्च॒रुम्पुन॒रेत्य॒ निर्व॑पेत् ​अ॒फ्सुयो॑नि॒र्वा अश्वः॑, स्वामे॒वैनँ॒य्योनि॑ङ्गमयति स ए॑न शा॒न्त उप॑ तिष्ठते ॥
मीमांसा.अध्या-3,पा-4,अधि-15
3.4.15.36 - अचोदितं कर्मभेदात् ॥
3.4.15.37 - सा लिङ्गादार्त्विजे स्यात् ॥
जैमिनीयन्यायमाला 3.4.15 (पञ्चदशे दातुर्वारुणीष्ट्यधिकरणे सूत्रे 36-37) ।
अचोदितं कर्मभेदात् ॥36॥
सा लिङ्गादार्त्विजे स्यात् ॥37॥ पञ्चदशाधिकरणमारचयति - यावतः प्रतिगृह्णीयादश्वांस्तावत्य इष्टयः । प्रतिग्रहीतुर्दातुर्वा स्यादाद्योऽस्तु यथाविधि ॥29॥ असंजातविरोध्यर्थवादाद्दातुः प्रजापतेः । इष्टिः श्रुता ततो दातुर्णिजर्थेऽपि विधिं नयेत् ॥30॥ पूर्वोदाहृते वाक्ये 'प्रतिगृह्णीयात्' इति विधिपदश्रवणात्प्रतिग्रहीतुरिष्टिः - इति चेत् । न । उपक्रमरूपेणार्थवादेन दातुस्तदिष्टिप्रतीतेः । उपक्रमश्चैवं श्रूयते - 'प्रजापतिवरुणायाश्वमनयत्, स स्वां देवतामार्छत्, स पर्यदीर्यत, स एतं वारुणं चतुष्कपालमपश्यत्, तं निरवपत्, ततो वै स वरुणपाशादमुच्यत' इति । अनयद्दत्तवान् । स च दाता प्रजापतिः स्वकीयां वरुणदेवतां जलोदररोगप्रदां प्राप्तवान् । तेन च रोगेण ग्रस्तः स प्रजापतिर्विदीर्णो भूत्वा रोगपरिहारायेष्टिं कृत्वा रोगादमुच्यत, इत्यत्र - दातुरिष्टिः - इत्यवगम्यते । असंजातविरोध्युपक्रमानुसारेण विधायकपदमपि 'प्रतिग्राहयेत्' इत्येवमन्तर्भावितणिजर्थपरतया व्याख्येयम् ।।
मैत्रा.सं.का-2,प्रपा-3(काम्येष्टयः),मन्त्रः-9
(अश्वप्रतिग्रहेष्टिः) अ॑थै॒षो॑ऽश्वः॒ प्र॑तिगृह्यते॒, स॑ वा॑ उभ॒य॑तो॒दन् प्र॑तिगृहीतो॒ नि॑र्बभस्त्यस्येन्द्रि॒यं॑ च प॒शू॑श्च॒, व॑रुणो॒ वा॑ अ॑श्वो वरुणदेव॒३त्यो॒, यो॑ वा॑ अ॑श्वं प्रतिगृ॒ह्णा॑ति॒ व॑रुण॒ स॑ प्र॑सीदति॒, त॑द॑श्वह॒वि॑षा यष्ट॒ष्यं निर्वरुण॒त्वा॑य॒, च॑तुष्कपाला भवन्ति॒, च॑तुष्पा॒द्वा अ॑श्वः, क॒पा॑लैरे॒वै॑नमाप्नोति॒, या॑व॒न्तो॑ऽश्वा॒स्ता॑वन्तः पुरो॒डा॑शा भवन्ति, स॒र्व॑त ए॒वै॑नं मुञ्च॒त्ये॑,को॑ऽधिभवति॒, य॑न्नो॑प॒स्म॑रति॒ त॑स्मा ए॒व॑ स॑, यः॑ पु॑नः प्रतिग्रही॒ष्य॑न्त्स्या॑न्न॑ स यजेत॒, य॑द्धि॑ पु॑नः प्रतिगृह्णी॒या॑त् पु॑न॒र्व॑रुणं॒ प्र॑सीदे॒,दथ॒ यः॑ पु॑नः प्रतिग्रही॒ष्य॑न्त्स्यात् त॑स्य वारु॒णा॑ ने॑माः॒ स्युः॑ सौर्यवारु॒णा॑ नेमा॒, य॑द्वारु॒णो॑, व॑रुणादे॒वै॑नं॒ ते॑न मुञ्च॒त्य॑,थ॒ य॑त्सौ॒र्यः॑, स्वा॑मे॒व॑ दे॒व॑ता॒मु॑प॒प्र॑तिगृह्णात्या॒त्म॑नो॑ऽहिसाया॒, ए॑कविशतिः सामिधे॒नी॑र्भ॒वन्त्य॒सा॑ आदि॒त्य॑ एकवि॒शः॑, प्र॒जा॑पतिर॒सा॑ आदि॒त्यः॑, प्राजा॑प॒त्यो॑ऽश्वो॒, या॑वाने॒वा॑श्व॒स्त॑माप्नोति॒, स॑र्वे॒ वा॑ अ॒न्ये॑ प॒श॑वो॒ यो॑निमन्तः॒ पु॑रुषयोनयो,ऽयो॒नि॑र॑श्वोऽप्सु॒जा॑, य॑दे॒षोऽपोन॒पोप्त्री॑यश्च॒रु॑र्भ॑वति॒ यो॑निमन्तमे॒वै॑नमकः॒, स्व॑ ए॒वैन॒ यो॑नौ॒ प्र॑तिष्ठापयति ॥


Go to Main Page