2. अभिजित् - இது अग्निष्टोमविकृति. இதில் पृष्ठस्तोत्रமாக रथन्तरम् - बृहत् என்கிற இரண்டையும் गानம் செய்ய வேண்டுமென்று விதியிருக்கிறது. பிரகிருதியாகத்தில் இரண்டில் ஒன்றைத் தான் காநம் செய்கிறது. இரண்டையும் पृष्ठस्तोत्रங்களிலேயே गानம் செய்கிறது என்று தீர்மானம் (ताण्ड्य.ब्रा.अध्या-16, कण्डि-1; अध्या-10, पा-6, अधि-8).

ताण्ड्य.ब्रा.अध्या-16, कण्डि-1; अध्या-10, पा-6, अधि-8
1 - प्रजापतिर्वा इदं एक आसीन्नाहरासीन्न रात्रिरासीत्सोऽस्मिन्नन्धे तमसि प्रासर्पत्स ऐच्छत्स एतं अभ्यपद्यत ततो वै तस्मै व्यौच्छद्व्युष्टिर्वा एष आह्रियते यद्वै तज्ज्योतिरभवत्तत्ज्योतिषो ज्योतिष्ट्वम्
2 - एष वाव प्रथमो यज्ञानां य एतेनानिष्ट्वाथान्येन यजते गर्तपत्यं एव तज्जीयते प्र वा मीयते
3 - यथा वा इदं अग्नेर्जातादग्नयो विह्रियन्त एवं एतस्मादध्यन्ये यज्ञा विह्रियन्ते
4 - यो हि त्रिवृदन्यं यज्ञक्रतुं आपद्यते स तं दीपयति यः पञ्चदशः स तं यः सप्तदशः स तं य एकविंशः स तम्
5 - एतत्तद्यदाहुरेको यज्ञ इत्येतद्धि सर्वे ज्योतिष्टोमा भवन्ति
6 - अस्थूरिर्वा एष सन्ततो यज्ञो द्वौ द्वौ हि स्तोमौ सवनं वहतस्त्रिवृत्पञ्चदशौ प्रातःसवनं पञ्चदशसप्तदशौ माध्यन्दिनं सवनं सप्तदशैकविंशौ तृतीयसवनम्
7 - या मितदक्षिणैव स्यादेष एव कार्य इयं वै ज्योतिरियं अमितस्य यन्त्रिकैषा वा एतं यन्तुं अर्हति
8 - तस्य नवतिशतं स्तोत्रीयास्तासां या अशीतिशतं ताः षट्त्रिंशिन्यो विराजः षडृतव ऋतुष्वेव विराजा प्रतितिष्ठति
9 - अथ या दशैषा वा आत्मन्या विराडेतस्यां वा इदं पुरुषः प्रतिष्ठितः
10 - गौश्चाश्वश्चाश्वतरश्च गर्दभश्चाजाश्चावयश्च व्रीहयश्च यवाश्च तिलाश्च माषाश्चैतस्यां एव विराजि प्रतितिष्ठति
11 - तस्य द्वादशं शतं दक्षिणाः
12 - वीरहा वा एष देवानां यः सोमं अभिषुणोति याः शतं वैरं तद्देवानवदयतेऽथ या दश दश प्राणाः प्राणांस्ताभिः स्पृणोति यैकादश्यात्मानं तया या द्वादशी सैव दक्षिणा
13 - श्लेष्म वा एतद्यज्ञस्य यद्दक्षिणा न वा अश्लेष्मा रथो वहत्यथ श्लेष्मवता यं कामं कामयते तं अभ्यश्नुत एवं एतेन दक्षिणावता यं कामं कामयते तं अभ्यश्नुते
14 - शुभो वा एता यज्ञस्य यद्दक्षिणा यद्दक्षिणावता यजते शुभं एवास्मिन्दधाति

मीमांसा,अध्या-10, पा-6, अधि-8 - उभयसाम्नि बृहद्रथंतरयोः समुच्चयाधिकरणम्
10.6.8.24 - उभयसाम्नि विश्वजिद्वद्विभागः स्यात् ॥
10.6.8.25 - पृष्ठार्थे वाऽतदर्थत्वात् ॥
10.6.8.26 - लिङ्गदर्शनाच्च ॥

Go to Main Page