(12). இரண்டாவது सङ्घத்தில் ஐந்து இஷ்டிகள்; ஒவ்வொன்றிலும் மூன்று யாகங்கள். முதல் யாகமும், மூன்றாவது யாகமும் இரண்டாவது யாகத்துக்குத் திரவியமும் ஒவ்வொரு இஷ்டியிலும் முதல் ஸங்கத்தில் போலவே. இரண்டாவது யாகத்துக்கு தேவதைகள் மாத்திரம் வேறு. அவர்களாவன - तपस्, श्रद्धा, सत्यம், मनस्, चरणம். இவர்களும் स्वर्गलोकத்துக்கு द्वारங்கள். (काठकम्, प्रश्नः-3, अनु-4).
काठकम्, प्रश्नः-3, अनु-2
दे॒वेभ्यो॒ वै स्व॒र्गो लो॒कस्ति॒रो॑ऽभवत् । ते प्र॒जाप॑तिमब्रुवन्न् । प्रजा॑पते स्व॒र्गो वै नो॑ लो॒कस्ति॒रो॑ऽभूत् । तमन्वि॒च्छेति॑ । तं य॑ज्ञक्र॒तुभि॒रन्वैच्छत् । तं य॑ज्ञक्र॒तुभि॒र्नान्व॑विन्दत् । तमिष्टि॑भि॒रन्वै॑च्छत् । तमिष्टि॑भि॒रन्व॑विन्दत् । तदिष्टी॑नामिष्टि॒त्वम् । एष्ट॑यो ह॒ वै नाम॑ । ता इष्ट॑य॒ इत्याच॑ख्षते प॒रोक्षे॑ण । प॒रोक्ष॑प्रिया इव॒ हि दे॒वाः ।। 15 ।।
तं तपोऽब्रवीत् । प्रजा॑पते॒ तप॑सा॒ वै श्राम्यसि । अ॒हमु॒ वै तपोऽस्मि । मां नु य॑जस्व । अथ॑ ते स॒त्यं तपो॑ भविष्यति । अनु॑ स्व॒र्गं लो॒कं वे॒थ्स्यसीति॑ । स ए॒तमाग्ने॒यम॒ष्टाक॑पाल॒न्निर॑वपत् । तप॑से च॒रुम् । अनु॑मत्यै च॒रुम् । ततो॒ वै तस्य॑ स॒त्यं तपो॑ऽभवत् । अनु॑ स्व॒र्गं लो॒कम॑विन्दत् । स॒त्य ह॒ वा अ॑स्य॒ तपो॑ भवति । अनु॑ स्व॒र्गं लो॒कं वि॑न्दति । य ए॒तेन॑ ह॒विषा॒ यज॑ते । य उ॑ चैनदे॒वं वेद॑ । सोऽत्र॑ जुहोति । अ॒ग्नये॒ स्वाहा॒ तप॑से॒ स्वाहा । अनु॑मत्यै॒ स्वाहा प्र॒जाप॑तये॒ स्वाहा । स्व॒र्गाय॑ लो॒काय॒ स्वाहा॒ऽग्नये स्विष्ट॒कृते॒ स्वाहेति॑ ।। 16 ।।
त श्र॒द्धाऽब्र॑वीत् । प्रजा॑पते श्र॒द्धया॒ वै श्राम्यसि । अ॒हमु॒ वै श्र॒द्धास्मि॑ । मां नु य॑जस्व । अथ॑ ते स॒त्या श्र॒द्धा भ॑विष्यति । अनु॑ स्व॒र्गं लो॒कं वे॒थ्स्यसीति॑ । स ए॒तमाग्ने॒यम॒ष्टाक॑पाल॒न्निर॑वपत्् । श्र॒द्धायै॑ च॒रुम् । अनु॑मत्यै च॒रुम् । ततो॒ वै तस्य॑ स॒त्या श्र॒द्धाऽभ॑वत् । अनु॑ स्व॒र्गं लो॒कम॑विन्दत् । स॒त्या ह॒ वा अ॑स्य श्र॒द्धा भ॑वति । अनु॑ स्व॒र्गं लो॒कं वि॑न्दति । य ए॒तेन॑ ह॒विषा॒ यज॑ते । य उ॑ चैनदे॒वं वेद॑ । सोऽत्र॑ जुहोति । अ॒ग्नये॒ स्वाहा श्र॒द्धायै॒ स्वाहा । अनु॑मत्यै॒ स्वाहा प्र॒जाप॑तये॒ स्वाहा । स्व॒र्गाय॑ लो॒काय॒ स्वाहा॒ऽग्नये स्विष्ट॒कृते॒ स्वाहेति॑ ।। 17 ।।
त स॒त्यम॑ब्रवीत् । प्रजा॑पते स॒त्येन॒ वै श्राम्यसि । अ॒हमु॒ वै स॒त्यम॑स्मि । मां नु य॑जस्व । अथ॑ ते स॒त्य स॒त्यं भ॑विष्यति । अनु॑ स्व॒र्गं लो॒कं वे॒थ्स्यसीति॑ । स ए॒तमाग्ने॒यम॒ष्टाक॑पाल॒न्निर॑वपत् । स॒त्याय॑ च॒रुम् । अनु॑मत्यै च॒रुम् । ततो॒ वै तस्य॑ स॒त्य स॒त्यम॑भवत् । अनु॑ स्व॒र्गँल्लो॒कम॑विन्दत् । स॒त्य ह॒ वा अ॑स्य स॒त्यं भ॑वति । अनु॑ स्व॒र्गल्लो॒कव्विँ॑न्दति । य ए॒तेन॑ ह॒विषा॒ यज॑ते । य उ॑ चैनदे॒वव्वेँद॑ । सोऽत्र॑ जुहोति । अ॒ग्नये॒ स्वाहा॑ स॒त्याय॒ स्वाहा । अनु॑मत्यै॒ स्वाहा प्र॒जाप॑तये॒ स्वाहा । स्व॒र्गाय॑ लो॒काय॒ स्वाहा॒ऽग्नये स्विष्ट॒कृते॒ स्वाहेति॑ ।। 18 ।।
तं मनोऽब्रवीत् । प्रजा॑पते॒ मन॑सा॒ वै श्राम्यसि । अ॒हमु॒ वै मनोऽस्मि । मान्नु य॑जस्व । अथ॑ ते स॒त्यं मनो॑ भविष्यति । अनु॑ स्व॒र्गल्लो॒कव्वेँ॒थ्स्यसीति॑ । स ए॒तमाग्ने॒यम॒ष्टाक॑पाल॒न्निर॑वपत् । मन॑से च॒रुम् । अनु॑मत्यै च॒रुम् । ततो॒ वै तस्य॑ स॒त्यं मनो॑ऽभवत् । अनु॑ स्व॒र्गल्लोँ॒कम॑विन्दत् । स॒त्य ह॒ वा अ॑स्य॒ मनो॑ भवति । अनु॑ स्व॒र्गल्लोँ॒कव्विँ॑न्दति । य ए॒तेन॑ ह॒विषा॒ यज॑ते । य उ॑ चैनदे॒वव्वेँद॑ । सोऽत्र॑ जुहोति । अ॒ग्नये॒ स्वाहा॒ मन॑से॒ स्वाहा । अनु॑मत्यै॒ स्वाहा प्र॒जाप॑तये॒ स्वाहा । स्व॒र्गाय॑ लो॒काय॒ स्वाहा॒ऽग्नये स्विष्ट॒कृते॒ स्वाहेति॑ ।। 19 ।।
तञ्चर॑णमब्रवीत् । प्रजा॑पते॒ चर॑णेन॒ वै श्राम्यसि । अ॒हमु॒ वै चर॑णमस्मि । मान्नु य॑जस्व । अथ॑ ते स॒त्यञ्चर॑णं भविष्यति । अनु॑ स्व॒र्गल्लोँ॒कव्वेँ॒थ्स्यसीति॑ । स ए॒तमाग्ने॒यम॒ष्टाक॑पाल॒न्निर॑वपत् । चर॑णाय च॒रुम् । अनु॑मत्यै च॒रुम् । ततो॒ वै तस्य॑ स॒त्यञ्चर॑णमभवत् । अनु॑ स्व॒र्गँल्लो॒कम॑विन्दत् । स॒त्य ह॒ वा अ॑स्य॒ चर॑णं भवति । अ॑नु स्व॒र्गल्लोँ॒कव्विँ॑न्दति । य ए॒तेन॑ ह॒विषा॒ यज॑ते । य उ॑ चैनदे॒वव्वेँद॑ । सोऽत्र॑ जुहोति । अ॒ग्नये॒ स्वाहा॒ चर॑णाय॒ स्वाहा । अनु॑मत्यै॒ स्वाहा प्र॒जाप॑तये॒ स्वाहा । स्व॒र्गाय॑ लो॒काय॒ स्वाहा॒ऽग्नये स्विष्ट॒कृते॒ स्वाहेति॑ ।। 20 ।।
ता वा ए॒ताः पञ्च॑ स्व॒र्गस्य॑ लो॒कस्य॒ द्वारः॑ । अपा॑घा॒ अनु॑वित्तयो॒ नाम॑ । तपः॑ प्रथ॒मा र॑ख्षति । श्र॒द्धा द्वि॒तीयाम् । स॒त्यन्तृ॒तीयाम् । मन॑श्चतु॒र्थीम् । चर॑णं पञ्च॒मीम् । अनु॑ ह॒ वै स्व॒र्गल्लोँ॒कव्विँ॑न्दति । का॒म॒चारोऽस्य स्व॒र्गे लो॒के भ॑वति । य ए॒ताभि॒रिष्टि॑भि॒र्यज॑ते । य उ॑ चैना ए॒वव्वेँद॑ । तास्व॑न्वि॒ष्टि । प॒ष्ठौ॒ही॒ व॒रान्द॑द्यात्क॒॒सञ़्च॑ । स्त्रियै॑ चाभा॒र समृ॑द्ध्यै ।। 21 ।। ।। 4 ।।
Go to Main Page