(11). இந்த நான்கு चयनங்களைத் தனித்தனியாகவும் செய்யலாம்; சேர்த்தும் செய்யலாம். அப்போது அவைகளுக்கு समष्टिचयनம் என்று பெயர். अग्निष्टोमம் தவிர மற்ற ஸோமயாகங்களில் இதைச்செய்தால், சில இஷ்டிகளை அதற்கு அங்கமாகச் செய்ய வேண்டியது.
அவைகளில் முதல் सङ्घம் (கூறு) दिवःश्येनी என்று சொல்லப்படுகிறது. இதில் ஏழு இஷ்டிகள் இருக்கின்றன. ஒவ்வொன்றிலும் மூன்று யாகங்கள். முதலாவது இஷ்டி (1) காமனாகிய அக்கினிக்கு 8-கபால புரோடாசம்; (2) आशा - चरु; (3) अनुमति - चरु. பாக்கி ஆறு இஷ்டிகளிலும் இப்படியே. இரண்டாவது யாகத்தின் தேவதைகள் மாத்திரம் வேறு. அவர்களாவன - வரிசையாய் कामம், ब्रह्म, यज्ञம், आपः, बलिमान् என்கிற அக்கினி, अनुवित्ति. இவர்களும் முதல் இஷ்டி இரண்டாவது தேவதையும். स्वर्गलोकத்துக்கு द्वारங்களாம். (काठकम् - प्रश्नः-3, अनु-2).
काठकम् - प्रश्नः-3, अनु-2
दे॒वेभ्यो॒ वै स्व॒र्गो लो॒कस्ति॒रो॑ऽभवत् । ते प्र॒जाप॑तिमब्रुवन्न् । प्रजा॑पते स्व॒र्गो वै नो॑ लो॒कस्ति॒रो॑ऽभूत् । तमन्वि॒च्छेति॑ । तं य॑ज्ञक्र॒तुभि॒रन्वैच्छत् । तं य॑ज्ञक्र॒तुभि॒र्नान्व॑विन्दत् । तमिष्टि॑भि॒रन्वैच्छत् । तमिष्टि॑भि॒रन्व॑विन्दत् । तदिष्टी॑नामिष्टि॒त्वम् । एष्ट॑यो ह॒ वै नाम॑ । ता इष्ट॑य॒ इत्याच॑ख्षते प॒रोक्षे॑ण । प॒रोक्ष॑प्रिया इव॒ हि दे॒वाः ।। 2 ।।
तमाशाऽब्रवीत् । प्रजा॑पत आ॒शया॒ वै श्राम्यसि । अ॒हमु॒ वा आशाऽस्मि । मां नु य॑जस्व । अथ॑ ते स॒त्याऽऽशा॑ भविष्यति । अनु॑ स्व॒र्गं लो॒कं वे॒थ्स्यसीति॑ । स ए॒तम॒ग्नये॒ कामा॑य पुरो॒डाश॑म॒ष्टाक॑पालं॒ निर॑वपत् । आ॒शायै॑ च॒रुम् । अनु॑मत्यै च॒रुम् । ततो॒ वै तस्य॑ स॒त्याऽऽशा॑ऽभवत् । अनु॑ स्व॒र्गं लो॒कम॑विन्दत् । स॒त्या ह॒ वा अ॒स्याऽऽशा॑ भवति । अनु॑ स्वर्गं लो॒कं वि॑न्दति । य ए॒तेन॑ ह॒विषा॒ यज॑ते । य उ॑ चैनदे॒वं वेद॑ । सोऽत्र॑ जुहोति । अ॒ग्नये कामा॑य॒ स्वाहा॒ऽऽशायै॒ स्वाहा । अनु॑मत्यै॒ स्वाहा प्र॒जाप॑तये॒ स्वाहा । स्व॒र्गाय॑ लो॒काय॒ स्वाहा॒ऽग्नये स्विष्ट॒कृते॒ स्वाहेति॑ ।। 3 ।।
तं कामोऽब्रवीत् । प्रजा॑पते॒ कामे॑न॒ वै श्राम्यसि । अ॒हमु॒ वै कामोऽस्मि । मां नु य॑जस्व । अथ॑ ते स॒त्यः कामो॑ भविष्यति । अनु॑ स्व॒र्गं लो॒कं वे॒थ्स्यसीति॑ । स ए॒तम॒ग्नये॒ कामा॑य पुरो॒डाश॑म॒ष्टाक॑पालं॒ निर॑वपत् । कामा॑य च॒रुम् । अनु॑मत्यै च॒रुम् । ततो॒ वै तस्य॑ स॒त्यः कामो॑ऽभवत् । अनु॑ स्व॒र्गं लो॒कम॑विन्दत् । स॒त्यो ह॒ वा अ॑स्य॒ कामो॑ भवति । अनु॑ स्व॒र्गं लो॒कं वि॑न्दति । य ए॒तेन॑ ह॒विषा॒ यज॑ते । य उ॑चैनदे॒वं वेद॑ । सोऽत्र॑ जुहोति । अ॒ग्नये॒ कामा॑य॒ स्वाहा॒ कामा॑य॒ स्वाहा । अनु॑मत्यै॒ स्वाहा प्र॒जाप॑तये॒ स्वाहा । स्व॒र्गाय॑ लो॒काय॒ स्वाहा॒ऽग्नये स्विष्ट॒कृते॒ स्वाहेति॑ ।। 4 ।।
तं ब्रह्माऽब्रवीत् । प्रजा॑पते॒ ब्रह्म॑णा॒ वै श्राम्यसि । अ॒हमु॒ वै ब्रह्मास्मि । मां नु य॑जस्व । अथ॑ ते ब्रह्म॒ण्वान् य॒ज्ञो भ॑विष्यति । अनु॑ स्व॒र्गं लो॒कं वे॒थ्स्यसीति॑ । स ए॒तम॒ग्नये॒ कामा॑य पुरो॒डाश॑म॒ष्टाक॑पालं॒ निर॑वपत् । ब्रह्म॑णे च॒रुम् । अनु॑मत्यै च॒रुम् । ततो॒ वै तस्य॑ ब्रह्म॒ण्वान् य॒ज्ञो॑ऽभवत् । अनु॑ स्व॒र्गं लो॒कम॑विन्दत् । ब्र॒ह्म॒ण्वान् ह॒ वा अ॑स्य य॒ज्ञो भ॑वति । अनु॑ स्व॒र्गं लो॒कं वि॑न्दति । य ए॒तेन॑ ह॒विषा॒ यज॑ते । य उ॑ चैनदे॒वं वेद॑ । सोऽत्र॑ जुहोति । अ॒ग्नये॒ कामा॑य॒ स्वाहा॒ ब्रह्म॑णे॒ स्वाहा । अनु॑मत्यै॒ स्वाहा प्र॒जाप॑तये॒ स्वाहा । स्व॒र्गाय॑ लो॒काय॒ स्वाहा॒ऽग्नये स्विष्ट॒कृते॒ स्वाहेति॑ ।। 5 ।।
तं य॒ज्ञोऽब्रवीत् । प्रजा॑पते य॒ज्ञेन॒ वै श्राम्यसि । अ॒हमु॒ वै य॒ज्ञोस्मि । मां नु य॑जस्व । अथ॑ ते स॒त्यो य॒ज्ञो भ॑विष्यति । अनु॑ स्व॒र्गं लो॒कं वे॒थ्स्यसीति॑ । स ए॒तम॒ग्नये॒ कामा॑य पुरो॒डाश॑म॒ष्टाक॑पालं॒ निर॑वपत् । य॒ज्ञाय॑ च॒रुम् । अनु॑मत्यै च॒रुम् । ततो॒ वै तस्य॑ स॒त्यो य॒ज्ञो॑ऽभवत् । अनु॑ स्व॒र्गं लो॒कम॑विन्दत् । स॒त्यो ह॒ वा अ॑स्य य॒ज्ञो भ॑वति । अनु॑ स्व॒र्गं लो॒कं वि॑न्दति । य ए॒तेन॑ ह॒विषा॒ यज॑ते । य उ॑चैनदे॒वं वेद॑ । सोऽत्र॑ जुहोति । अ॒ग्नये॒ कामा॑य॒ स्वाहा॑ य॒ज्ञाय॒ स्वाहा । अनु॑मत्यै॒ स्वाहा प्र॒जाप॑तये॒ स्वाहा । स्व॒र्गाय॑ लो॒काय॒ स्वाहा॒ऽग्नये स्विष्ट॒कृते॒ स्वाहेति॑ ।। 6 ।। ।।
तमापोऽब्रुवन्न् । प्रजा॑पते॒ऽफ्सु वै सर्वे॒ कामाश्श्रि॒ताः । व॒यमु॒ वा आप॑स्स्मः । अ॒स्मान्नु य॑जस्व । अथ॒ त्वयि॒ सर्वे॒ कामाश्श्रयिष्यन्ते । अनु॑ स्व॒र्गं लो॒कं वे॒थ्स्यसीति॑ । स ए॒तम॒ग्नये॒ कामा॑य पुरो॒डाश॑म॒ष्टाक॑पालं॒ निर॑वपत् । अ॒द्भ्यश्च॒रुम् । अनु॑मत्यै च॒रुम् । ततो॒ वै तस्मि॒न्थ्सर्वे॒ कामा॑ अश्रयन्त । अनु॑ स्व॒र्गं लो॒कम॑विन्दत् । सर्वे॑ ह॒ वा अ॑स्मि॒न्कामाश्श्रयन्ते । अनु॑ स्व॒र्गं लो॒कं वि॑न्दति । य ए॒तेन॑ ह॒विषा॒ यज॑ते । य उ॑ चैनदे॒वं वेद॑ । सोऽत्र॑ जुहोति । अ॒ग्नये॒ कामा॑य॒ स्वाहा॒ऽद्भ्यस्स्वाहा । अनु॑मत्यै॒ स्वाहा प्र॒जाप॑तये॒ स्वाहा । स्व॒र्गाय॑ लो॒काय॒ स्वाहा॒ऽग्नये स्विष्ट॒कृते॒ स्वाहेति॑ ।। 7 ।।
तम॒ग्निर्ब॑लि॒मान॑ब्रवीत् । प्रजा॑पते॒ऽग्नये॒ वै ब॑लि॒मते॒ सर्वा॑णि भू॒तानि॑ ब॒लि ह॑रन्ति । अ॒हमु॒ वा अ॒ग्निर्ब॑लि॒मान॑स्मि । मां नु य॑जस्व । अथ॑ ते॒ सर्वा॑णि भू॒तानि॑ ब॒लि ह॑रिष्यन्ति । अनु॑ स्व॒र्गं लो॒कं वे॒थ्स्यसीति॑ । स ए॒तम॒ग्नये कामा॑य पुरो॒डाश॑म॒ष्टाक॑पालं॒ निर॑वपत् । अ॒ग्नये॑ बलि॒मते॑ च॒रुम् । अनु॑मत्यै च॒रुम् । ततो॒ वै तस्मै॒ सर्वा॑णि भू॒तानि॑ ब॒लिम॑हरन्न् । अनु॑ स्व॒र्गं लो॒कम॑विन्दत् । सर्वा॑णि ह॒ वा अ॑स्मै भू॒तानि॑ ब॒लि ह॑रन्ति । अनु॑ स्व॒र्गं लो॒कं वि॑न्दति । य ए॒तेन॑ ह॒विषा॒ यज॑ते । य उ॑ चैनदे॒वं वेद॑ । सोऽत्र॑ जुहोति । अ॒ग्नये॒ कामा॑य॒ स्वाहा॒ऽग्नये॑ बलि॒मते॒ स्वाहा । अनु॑मत्यै॒ स्वाहा प्र॒जाप॑तये॒ स्वाहा । स्व॒र्गाय॑ लो॒काय॒ स्वाहा॒ऽग्नये स्विष्ट॒कृते॒ स्वाहेति॑ ।। 8 ।।
तमनु॑वित्तिरब्रवीत् । प्रजा॑पते स्व॒र्गं वै लो॒कमनु॑ विविथ्ससि । अ॒हमु॒ वा अनु॑वित्तिरस्मि । मां नु य॑जस्व । अथ॑ ते स॒त्याऽनु॑वित्तिर्भविष्यति । अनु॑ स्व॒र्गं लो॒कं वे॒थ्स्यसीति॑ । स ए॒तम॒ग्नये॒ कामा॑य पुरो॒डाश॑म॒ष्टाक॑पालं॒ निर॑वपत् । अनु॑वित्त्यै च॒रुम् । अनु॑मत्यै च॒रुम् । ततो॒ वै तस्य॑ स॒त्याऽनु॑वित्तिरभवत् । अनु॑ स्व॒र्गं लो॒कम॑विन्दत् । स॒त्या ह॒ वा अ॒स्यानु॑वित्तिर्भवति । अनु॑ स्व॒र्गं लो॒कं वि॑न्दति । य ए॒तेन॑ ह॒विषा॒ यज॑ते । य उ॑ चैनदे॒वं वेद॑ । सोऽत्र॑ जुहोति । अ॒ग्नये॒ कामा॑य॒ स्वाहाऽनु॑वित्त्यै॒ स्वाहा । अनु॑मत्यै॒ स्वाहा प्र॒जाप॑तये॒ स्वाहा । स्व॒र्गाय॑ लो॒काय॒ स्वाहा॒ऽग्नये स्विष्ट॒कृते॒ स्वाहेति॑ ।। 9 ।।
ता वा ए॒तास्स॒प्त स्व॒र्गस्य॑ लो॒कस्य॒ द्वारः॑ । दि॒वःश्ये॑न॒योऽनु॑वित्तयो॒ नाम॑ । आशा प्रथ॒मा र॑ख्षति । कामो द्वि॒तीयाम् । ब्रह्म॑ तृ॒तीयाम् । य॒ज्ञश्च॑तु॒र्थीम् । आपः॑ पञ्च॒मीम् । अ॒ग्निर्ब॑लि॒मान्थ्ष॒ष्ठीम् । अनु॑वित्तिस्सप्त॒मीम् । अनु॑ ह॒ वै स्व॒र्गं लो॒कं वि॑न्दति । का॒म॒चारोऽस्य स्व॒र्गे लो॒के भ॑वति । य ए॒ताभि॒रिष्टि॑भि॒र्यज॑ते । य उ॑ चैना ए॒वं वेद॑ । तास्व॑न्वि॒ष्टि । प॒ष्ठौ॒ही व॒रां द॑द्यात्क॒॒सं च॑ । स्त्रियै॑ चाभा॒र समृ॑द्ध्यै ।। 10 ।।
Go to Main Page