Interesting >>> Kindly Keep Cursor Over Scrolling Image and Stop Moving Images. We can read all the 14 Vidhyasthana Images with their Slokas <<
Hayagriva
ब्रह्माणं जनयित्रेऽस्तु वेदांश्चास्मै प्रयच्छते ।
हयकन्धररूपेण नष्टानाहरते नमः ।।
हंसरूपेणोपदेष्ट्रे मत्स्याद्यै रक्षते च तान् ।
कालेकालेऽभिगोप्त्रे च क्षोभादिप्राप्तिहेतुषु ।।
वेदवेद्याय वेदार्थस्वरूपाय च वेदिने ।
वेदसंरक्षकायापि पुरुषाय नमो नमः ।।
द्रव्ययज्ञैः ज्ञानयज्ञैः जपयज्ञैस्तथैव च ।
इष्टाय सर्ववेदज्ञैः शिष्टेष्टायास्तु मङ्गलम् ।।
C-Vyāsa
वेदैः साङ्गैश्च मीमांसान्यायविस्तरपूर्वकैः ।
पुराणैर्धर्मशास्त्रैश्च प्रतिपाद्याय मङ्गळम् ।
Rigveda
ऋग्भिः स्तुताय चेष्टाय यजुर्भिः शुक्लकृष्णकैः ।
गीताय सामभिश्चास्तु ब्रह्मणेऽथर्वणे नमः |
संहिताभिः ब्राह्मणैश्चाऽऽरण्यकोपनिषद्गणैः ।
प्रतिवेदं नुतायास्तु साङ्गकैः सोपबृंहणैः ।।
Yajurveda
ऋग्भिः स्तुताय चेष्टाय यजुर्भिः शुक्लकृष्णकैः ।
गीताय सामभिश्चास्तु ब्रह्मणेऽथर्वणे नमः ।।
संहिताभिः ब्राह्मणैश्चाऽऽरण्यकोपनिषद्गणैः ।
प्रतिवेदं नुतायास्तु साङ्गकैः सोपबृंहणैः ।।
Samaveda
ऋग्भिः स्तुताय चेष्टाय यजुर्भिः शुक्लकृष्णकैः ।
गीताय सामभिश्चास्तु ब्रह्मणेऽथर्वणे नमः ।
संहिताभिः ब्राह्मणैश्चाऽऽरण्यकोपनिषद्गणैः ।
प्रतिवेदं नुतायास्तु साङ्गकैः सोपबृंहणैः ।।
AtharvanaVeda
ऋग्भिः स्तुताय चेष्टाय यजुर्भिः शुक्लकृष्णकैः ।
गीताय सामभिश्चास्तु ब्रह्मणेऽथर्वणे नमः ।
संहिताभिः ब्राह्मणैश्चाऽऽरण्यकोपनिषद्गणैः ।
प्रतिवेदं नुतायास्तु साङ्गकैः सोपबृंहणैः ।।
Śikṣa
शिक्षा-व्याकृति-नैरुक्ताः छन्दो-ज्यौतिष-कल्पकाः ।
यस्याङ्गभूताःस्युः सर्वे हयास्यायास्तु मङ्गळम् ।
अनाघ्राताशुभो नित्यं शिक्षाघ्राणतनुर्मम ।
शिक्षां करोतु रक्षार्थं सुशिक्षितबुधैर्नुतः ।।
Vyakaranam
व्याकर्ता नामरूपाणामशेषचिदचित्तनुः ।
व्याकृत्या मुखवान्वाचं संस्करोतु ममानिशम्
Nirukta
निरुच्यमानः साहस्रैः नामभिः श्रुतिमूलकैः ।
निरुक्तश्रुतिरव्यान्मां भूरि पुण्यश्रवाप्तये ।।
Chandas
छन्दोभिः पादभूतैस्तु त्रिलोकीं क्रमतो हरेः ।
गायत्र्याद्यैरमोघं नः छन्दः कल्पयताच्छुभम् ।।
Jyauthiṣa
यं वेदा ज्योतिषां ज्योतिराहुरादित्यवर्णकम् ।
अयनं ज्योतिषां चक्षुः यस्यासावस्तु नो मुदे ।।
Kalpa
कल्पानोकहकल्पाय कल्पहस्ताय सादरम् ।
कल्पयामः सपर्यां वै तस्य सङ्कल्पतो वयम् ।।
Mimāmsa
यः पूर्वोत्तरमीमांसे स्वशिष्येण स्वयं क्रमात् ।
सूत्रयामास तं व्यासं मीमांसे विष्णुरूपिणम् ।।
NyayaVistāra
सन्न्यायानुगृहीतेन शास्त्रेणाधिगताय च ।
न्यायविस्तरवेद्याय नित्यं न्यायविदे नमः ।।
Purāna
पुराणैः सात्विकैः सम्यक् प्रतिपाद्याय मङ्गळम् ।
व्यासरूपेण तत्कर्त्रे पुराणपुरुषाय च ।।
वेदोपबृंहणैः पुण्यैः इतिहासैर्यथार्थतः
भारतेनादिकाव्येन विदिताय च मङ्गळम् ।।
Dharmaṣastra
धर्मसंस्थापनार्थाय सम्भवन्तं युगे युगे ।
धर्मशास्त्रैः सुवेद्याय नमो धर्मस्वरूपिणे ।।
Alankarā
अलङ्कारैः मनोज्ञैश्च शोभते सम्यगन्वहम् ।
आलङ्कारिकहृद्याय माऽलङ्काराय मङ्गळम् ।।
वाचा देव्या श्रिया नित्यं सहितायानघैः गुणैः
साहित्यवाङ्मयैः सम्यक् प्रतिपाद्याय मङ्गळम् ।।
Kalā
वेदबाह्यकुदृष्टीनां मतान्यासुरमोहने ।
प्रवर्तते प्रयोक्त्रे च दैवतेड्याय मङ्गळम् ।।
लौकिक्योऽपि च या वाचः वैदिक्या एव ता इति ।
विद्याभिर्लौकिकीभिश्च राधितायास्तु मङ्गळम् ।।
Desika Prabhandam
श्रीसूरिगाथास्तोत्रादि-श्राव्यैः सुकृतिभिः सदा ।
स्तुताय श्रुतिविद्भिश्च सूरिसेव्याय मङ्गळम् ।।
श्रीसूरि-शठजिन्नाथ-भाष्यकृद्देशिकोत्तमैः ।
पूर्वाचार्यैः सुपूज्याय कृतिभिः बहुभिः नमः ।।
Nalāyiram
श्रीसूरिगाथास्तोत्रादि-श्राव्यैः सुकृतिभिः सदा ।
स्तुताय श्रुतिविद्भिश्च सूरिसेव्याय मङ्गळम् ।।
श्रीसूरि-शठजिन्नाथ-भाष्यकृद्देशिकोत्तमैः ।
पूर्वाचार्यैः सुपूज्याय कृतिभिः बहुभिः नमः ।।
Applications :
Go Back to Home Page
 
Browse Texts
Manuscripts
Vidyā-sthāna Videos
e-Learning Courses
PIVS Academic Activities
PIVS Regular Activities